पृष्ठम्:मथुराविजयम्.djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः ।
चिकुरनियमनेषु कामिनीनामभिनववस्त्र परिग्रहान्तरेषु ।
अभिमतपददर्शनैरयत्नैरतिमदनं स्वममंस्त कम्पराजः ॥ ६८ ॥
ततः सैरन्ध्रीभिः कृतसमुचिता कल्परचनः
पुरन्ध्रीभिः सार्धं समधिगतशुद्धान्तवसतिः ।
त्रयीगीतं तेजस्त्रिपुरहरमाराध्य विधिवद्
यथार्है र्व्यापारैर्नरपतिरहश्शेषमनयत् ॥ ३९ ॥
इति [श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीर*] कम्परायचरिते
षष्ठः सर्गः ।
अथ सप्तमः सर्गः ।
अथ कम्पनरेन्द्रसुभ्रुवां मुखपद्मान्यनुहार्य पङ्कजैः ।
अपराधभियेव भानुमानपरक्ष्माघरकन्दरामगात् ।। १ ।।
परिचूषितदीप्तिरम्बुजैः पुनरूष्माणमिवाप्तुमौर्वतः ।
रयवल्गितवाहनो रविः पयसां राशिमवाप पश्चिमम् ।। २ ।।
अपसर्पणसंभ्रमच्युतं दिनलक्ष्म्यास्तपनीय कुण्डलम् ।
रविमण्डलमाशशङ्किरे वरुणान्तः पुरवामलोचनाः || ३ ||
तरणेररुणीकृताः करैर्वरुण स्त्रैण कपोलभित्तयः ।
मदलोहिनिकामुपावहन् मदिरास्वादनमन्तराप्यो ॥ ४ ॥
कमलोदरसंभृतं करैर्मधु पीत्वा रविरुज्झिताम्बरः ।
स्पृशति स्म दिशं प्रचेतसो न मदः कस्य विकारकारणम् ॥ ५॥
३५