पृष्ठम्:मथुराविजयम्.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये
तिमि............रोपमैस्तरलाभैरुदभावि तारकैः ।
परुषातपतापितात्मनो गगनस्येव निदाघबिन्दुभिः ॥ २८ ॥
अवपत् किमु कालकर्षकस्तिमिराम्भःकलुपे नमस्तले ।
विमलामुडुबीजमण्डलीं नवचन्द्रातपसस्यसिद्धये ॥ २९ ॥
अहरत्ययरागपल्लवस्तमसा कन्दलितो नभस्तरुः ।
सृजति स्म निरन्तरं हरिद्विटपैस्तारककोरकावलिम् ॥ ३० ॥
अगमन्नभिसारिकाः प्रियाननुरागाञ्जनरञ्जितेक्षणाः ।
अभिनत्तिमिरेऽपि ताः पुनः श्वसितेनैव सुगन्धिना जनः ॥ ३१ ॥
जननीमुपलभ्य यामिनीमधिकस्नेहदशाभिवर्धिताः ।
दिवसस्य लयं प्रपेदुषो गृहदीपा मुहुरर्भका इव ॥ ३२ ॥
उडुपुष्पकरम्बितं तमः कचभारं दधती निशीथिनी ।
अचिरादियमन्वपालयत् कुमुदस्मेरमुखी निशाकरम् ॥ ३३ ॥
तदनु क्षणदागमोल्लसत्कलशाम्मोनिधिवीचिराचिषः ।
व्यरुचन् कतिचित् कराङकुराः शशिनः शातमखे दिशामुखे ॥ ३४ ॥
तरलालसतारकं मुखं कलयन्ती शरकाण्डपाण्डरम् ।
विगलतिमिराम्बरा बभौ हरिदैन्द्री हरिणाङ्कगर्भिणी ॥ ३५ ॥
अथ किञ्चिद दृश्यतैन्दवं वपुरार्द्रोदयरागलोहितम् ।
बलशासन दिग्विलासिनी मुखसिन्दूरललामकोमलम् ॥ ३६ ॥
परिपिण्डितयाचकारुणं प्रचकाशे हिमरश्मिमण्डलम् ।
रचितं नवरक्तसन्ध्यकैर्विजयच्छन्त्र भिवात्मजन्मनः ॥ ३७ ॥
परुषेऽपि तथा प्रभानिधौ विधुरं लोकमिने परेयुषि |
उदशिवसदाहतैः करैरथ राजा मृदुर्निवोदयः ॥ ३८॥