पृष्ठम्:मथुराविजयम्.djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सतमः सर्गः ।
अथ कम्पनृपोऽपि कृत्यवित् कृतसन्ध्यासमयोचितक्रियः ।
अवदत् सविधे स्थितां मियां भुवि गङ्गेत्यभिनन्दिताह्वयाम् ॥ ३९ ॥
कमलाक्षि ! कटाक्ष्यतामयं समयो वर्णनया रसाईया |
जन एष वचस्तवामृतं श्रवसा पाययितुं कुतूहली ॥ ४० ॥
इति सा दयितेन भाषिता दरनम्रं दधती मुखाम्बुजम् ।
वदति स्म शनैः शुचिस्मिता सरसोदारपदां सरस्वतीम् ॥ ४१ ॥
स्वदमानसुगन्धिमारुतः प्रसरत्कोमलचन्द्रिकोदयः ।
नृपचन्द्र ! निरीक्ष्यतामयं [समय: *] पोषितपुष्पसायकः ॥ ४२ ॥
परिरभ्य दृढं चिरागतः प्रथमाशासुदृशा निशापतिः ।
[श्लथयत्यय*]मंशुभिर्नखैस्तिमिरश्रेणिमयीं प्रवेणिकाम् ॥ ४३ ॥
प्रथमाचलमौलिमुच्चकैरधिरुह्याम्बरपात्रसम्भृतम् ।
अयमंशुमृणालिकामुखैस्तिमिरं चूषयतीव चन्द्रमाः ॥ ४४ ॥
अलिमीलमयस्तमोमयं प्रविलाप्योदयरागवह्निना ।
कलयत्ययमोषधीश्वरः कलधौतं शुचि कौमुदीमिषात् ॥ ४५ ॥
शशिमण्डलशङ्खपेटकादवकृष्य क्षपया समर्पितम् ।
कुमुदच्छवि कौमुदीमयं दधती क्षौममभाद् दिगङ्गना ॥ ४६ ।।
हरितं परिरभ्य वासवीं हरिणाङ्कः करपातलीलया |
स्पृशति प्रणयात् कुमुद्वतीं बत! विश्वासपदं न कामिनः ॥ ४७ ॥
मुहुरामृशदेव पद्मिनीमपि रागी क्षणदाकरः करैः ।
यदमुं प्रति नेयमुन्मुखी प्रभवत्यत्र पतिव्रतागुणः ॥ ४८ ॥
अनुदर्श मनुप्रवेश तस्तपनाच्छक्तिमवाप तापिनीम् ।
नियतं हिमदीधितिर्यतः क्षमते तापयितुं नियोगिनः ॥ ४९ ॥
३९