पृष्ठम्:मथुराविजयम्.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये
अलिविभ्रममन्तरेति यन्न विधोस्तन्मृगलक्ष्म किन्त्वयम् ।
पुरजिद्रथचक्रतार्जितो बहल: कज्जललेपकालिमा ॥ ५० ॥
मघवन्मणिभङ्गमेचकः शशिनि श्यामलिमा चकास्ति यः |
जनयत्ययमङ्कपालिकाप्रणयालीननिशीथिनीधियम् ॥ ५१ ॥
फलयामि कलङ्ककैतवान्नियतं धारयते...!*
[ इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते
सप्तमः सर्गः ।*]
अथाष्टमः सर्गः ।
...........................।
......... व्याघ्रपुरीति सा यथार्थम् ॥
अधिरङ्गमवाप्तयोगनिद्रं हरिमुद्वेजयतीति जातभीतिः ।
पतिवं मुहुरिष्टकानिकायं फणचक्रेण निवारयत्यहीन्द्रः ॥
........नुघूर्णदूर्णनाभं वनवेतण्डविमर्दिनीमवस्थाम् ।
विरतान्यपरिच्छदप्रपञ्चो भजते हन्त ! गजप्रमाथिनाथः ॥
घुणजग्धकवाटसम्पुटानि स्फुटदूर्वाङ्कुरसन्धिमण्डपानि ।
श्लथगर्भगृहाणि वीक्ष्य दूये भृशमन्यान्यपि देवताकुलानि ॥

  • इतः परमुपत्रिंशपद्यनिवेशपर्याक्षं पत्रं तालपत्रादर्शे न लिखितस् । 'व्याब

पुरी' त्यादीनां वृत्तभेददर्शनादतर्भावः संभाव्यते ।