पृष्ठम्:मथुराविजयम्.djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजयें
श्रुतिरस्तमितां नयः प्रलीनो विरता धर्मकथा च्युतं चरित्रम् |
सुकृतं गतमाभिजात्यमस्तं किमिवान्यत् कलिरेक एव धन्यः ||
इति सा निखिलं निवेद्य राज्ञे यवनानां जनगर्हितं चरित्रम् |
अतिभीषणमात्मनः प्रभावात् कमपि प्रादुरभावयत् कृपाणंम् ॥
अथ तं कलधौतकोश[तः सा क *]रलग्नत्सरुरुच्चखान खड्गम् |
अचिरोज्झितकञ्ञ्जुकानुबन्धस्फुटकालोरगभोगसाम्यभाजम् ॥
क्षयकालकराल भद्रकालीगलकालागरुकर्द[मायमा *] नैः ।
महसां प्रसरैरदीपहार्यं किमपि ध्वान्तमिव प्रकाशयन्तम् ||
प्रतिबिम्बितदीपकान्तिमन्तः स्फुटता पिञ्छतरुप्रसूननीलम् ।
नवमम्बुधरं विडम्बयन्तं जठरोज्जृम्भितवैद्युतप्रकाशम् ॥
तमरातिनराधिनाथनारीनयनाम्भःकणपातहेतुभूतम् ।
प्रभुरुन्मिषितस्वरोषवह्नेरधिकोद्दामममस्त धूमदण्डम् ॥
( कलापकम् ।)
प्रणयागतचोलपाण्ड्यलक्ष्मी श्रवणेन्दीवरमालिकायमानम् ।
विरचय्य पुरः कृपाणभेषा पुनरप्याह पुरन्दराभमेन॑म् ॥
नरनाथ ! पुरा कृपाण मेनं विरचय्याखिलदेवतायुधांशैः ।
उपदीकृतवान् पिनाकपाणेर्दनुजानां विजयाय विश्वकर्मा |
अमुमुग्रतपःकृतप्रसादः प्रददौ पाण्ड्यनृपाय सोऽपि देवः ।
यमुपेत्य चिरेण तस्य वंश्याः पृथिवीमप्रतिशासनामशासन् ||
अथ कालवशेन पाण्ड्यवंश्यान् गतवीर्यानवधार्य कुम्भजन्मा |
मनुजेश्वर ! मण्डलाग्रमेनं भवते प्रेषितवान् महाभुजाय ॥
अमुना युधि दुःसहं महः स्यात् तव नैसर्गिकसाहसप्रवृत्तेः ।
ध्रुवमूष्मण दारुणो दवाग्निः किमुतोच्चण्ड समीरसंस्तवेन ॥