पृष्ठम्:मथुराविजयम्.djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

४६
मधुराविजयम् ।
ततस्तुलुष्कान् युधि [कान्दिशी*] कानालोक्य विष्फारितघोरशार्ङ्ग
कम्पक्षितीन्द्रं यवनाधिराजः प्रत्यग्रहीद् वृत्र इवामरेन्द्रम् ||
तं वीरपाणाधिकपाटलाक्षं ललाटलक्ष्यभ्रुकुटीकरालम् ।
मदस्य रोषस्य च देहबन्धं संमेदमाशङ्कत वीरवर्गः ॥
निरायता तस्य तुरङ्गवेगा वेणिर्मणिश्रेणिमती चकाशे ।
अमर्षवह्रेर्ज्वलनोन्मुखस्य धूमच्छटेव स्फुरितस्फुलिङ्गा ||
आस्फाल्यमानस्य च तेन गाढं शार्ङ्गस्य मौर्वीनिनदश्चकार ।
चिरात् परित्यज्य तमुच्चलन्त्या जयश्रियो नूपुरघोषशङ्काम् ||
पराक्रमाधःकृतचोलपाण्ड्यं वल्लालसम्पल्लतिकाकुठारम् ।
रणोन्मुखं कम्पनृपोऽभ्यनन्दीद् वीरः सुरत्राणमुदग्रशौर्यः ॥
आकर्णमाकृष्टशरासनौ तौ मिथः किरन्तौ विशिखानसङ्ख्यान् ।
वीरौ स्वबाहुद्रविणानुरूपमायोधनं मानधनौ व्यधाताम् ॥
बाणा निरस्ता यवनेन तस्मिन्नपाङ्गपाता इव वीरलक्ष्म्याः |
कम्पेश्वरेणाप्यभिपारसीकं शराः कटाक्षा इव कालरात्रेः ||
स केरलप्राणमरुद्भु ङ्गन् वन्यावनीन्द्रद्रुमदाववह्नीन् ।
अन्ध्रान्धकारक्षयतिग्मभासो बाणानमुञ्चद् यवने नरेन्द्रः ||
क्षतानि यान्यस्य शरैः शरीरे चकार वीरस्य तुलुष्कवीरः ।
वितेनिरे तानि नखाङ्कशङ्कां जयश्रियो भोगसमुत्सुकायाः ॥
उदग्रमग्रे यवनाधिभर्तुः साक्षात्कलेर्मौलिमिवाशुगेन ।
स मङ्क्षु सार्धं जयकाङ्क्षितेन ध्वाङ्क्षध्वजं ध्वंसयति स्म धन्वी ||
अमर्षितस्याथ पृषत्कवर्षं विमुञ्चतो विद्विषतः शरेण ।
स कार्मुकज्यामलनात् तुलुष्कराज्यश्रियो मङ्गलसूत्रकल्पाम् ||