पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ३]
१२५
मन्वर्थमुक्तावलीसंवलिता।

 पित्र्ये इति ॥ पित्र्ये निरपेक्षपितृमातृदेवताक एकोद्दिष्टश्राद्धे तृप्तिप्रश्नार्थं स्वदितमिनि वाच्यम् । तथाच गोभिलसांख्यायनौ स्वदितमिति तृतिप्रश्नः । मेधातिथिगोविन्दराजौ तु श्राद्धकालागतेनान्येनापि स्वदितमित्येव कर्तव्यमिति व्याचक्षतुः । 'श्राद्धे स्वदितमित्येतद्वाच्यमन्येन केनचित् । नानुरुद्धमिदं विबुद्बुद्धैर्न श्रद्दधीमहि' । गोष्टे गोष्ठीश्राद्धे सुश्रुतमिति वाच्यम्। 'गोष्ठ्यां शुद्ध्यर्थमष्टमम्' इति द्वादशविधश्राद्धगणनायां गोष्ठीश्राद्धमपि विश्वामित्रेण पठितम् । अभ्युदये वृद्धिश्राद्धे संपन्नमिति वाच्यम् । दैवे देवतोद्देशेन श्राद्धे रुचितमिति वचनीयम् । दैवश्राद्धं तु भविष्यपुराणोक्तम्-'देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते । हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः' ॥ २५४ ॥

अपराह्नस्तथा दर्भा वास्तुसंपादनं तिलाः।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः ॥ २५५ ॥

 अपराह्ण इति ॥ अमावस्याश्राद्धस्य प्रकृतत्वात्तद्विषयोऽयमपराह्णकालः 'प्रातवृद्धिनिमित्तकम्' इत्यादिना वृद्धिश्राद्धादौ स्मृत्यन्तरे प्रातःकालादिविधानात् । विष्टराद्यर्था दर्भाः, गोमयादिना श्राद्धदेशसंशोधनं, तिलाश्च विकिरणाद्यर्थाः, सृष्टिरकार्पण्येनान्नादिविसर्गः, मृष्टिरन्नादेश्च संस्कारविशेषः, पङ्क्तिपावनादयश्च ब्राह्मणाः, एताः श्राद्धे संपत्तय इत्यभिधानादङ्गान्तरापेक्षं प्रकृष्टत्वमेषां बोधितम् ॥ २५५॥

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः।
पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ २५६ ॥

 दर्भा इति ॥ पवित्रं मन्त्राः, पूर्वाह्णः कालः, हविष्याणि मुन्यन्नादीनि सर्वाणि च, यच्च पवित्रं पावनं वास्तुसंपादनादि पूर्वमुक्तं एताश्च देवार्थस्य कर्मणः समृद्धयः । हव्यशब्दो दैवकर्मोपलक्षणार्थः ॥ २५६ ॥

मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ २५७ ॥

 मुन्यन्नानीति ॥ मुनेर्वानप्रस्थस्यान्नानि नीवारादीनि, पयः क्षीरं, सोमलतारसः, अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम्, अक्षारलवणमकृत्रिमलवणं सैन्धवादि, एतत्स्वभावतो हविर्मन्वादिभिरभिधीयते ॥ २५७ ॥

विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः।
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान्पितॄन् । २५८ ॥

 विसृज्येति ॥ ज्ञान्ब्राह्मणान्विसृज्यानन्यमनाः मौनी पवित्रो दक्षिणां दिशं वीक्षमाण एतान्वक्ष्यमाणानभिलषितानर्थान्पितॄन्प्रार्थयेत् ॥ २५८ ॥