छायायामिति ॥ रात्रौ छायायामन्धकारे वा अहनि छायायां नीहाराद्यन्धकारे वा दिग्विशेषाज्ञाने सति चौरव्याघ्रादिकृतप्रागविनाशभयेषु च यथेप्सितमुखो मूत्रपुरीषे कुर्यात् ॥ ५ ॥
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजान् । |
प्रत्यग्निमिति ॥ वाय्वग्निविप्रमित्यनेन मेहतोऽन्यादीनां दर्शनं निषिद्धम् । अनेन त्वपश्यतोऽपि संमुखीनत्वं निषिध्यते । अग्निसूर्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्रपुरीषे कुर्वतः प्रज्ञा नश्यति तस्मादेतन्न कर्तव्यम् । प्रतिवातमित्यस्य स्थाने प्रतिसंध्यमित्यन्ये पठन्ति ॥ ५२ ॥
नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । |
नाग्निमिति ॥ नाग्निर्मुखेन ध्मातव्यः किं तर्हि व्यजनादिना । 'न नग्नां स्त्रियमीक्षेत' इति सांख्यायनदर्शनान्मैथुनव्यतिरेकेण नग्नां स्त्रियं न पश्येत् । अमेध्यं मूत्रपुरीषादिकं नाग्नौ क्षिपेत् । नच पादौ प्रतापयेत् । प्रशब्दादग्नौ पादावुत्क्षिप्य साक्षान्न प्रतापयेत् । वस्त्रादितापस्वेदेऽविरोधः ॥ ५३ ॥
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । |
अधस्तादिति ॥ खट्वादिभ्योऽधस्तादङ्गारशकट्यादिकं न कुर्यात् । न चाग्निमुत्प्लुत्य गच्छेत् । नत्र सुप्तः पाददेशेऽग्निं स्थापयेत् । नच प्राणपीडाकरं कर्म कुर्यात् ॥५४॥
नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् । |
नाश्नीयादिति ॥ संध्याकाले भोजनं ग्रामान्तरगमनं निद्रां च न कुर्यात् । नच रेखादिना भूमिमुल्लिखेत् । नच मालां धृतां स्वयमेवापनयेत् । अर्थादन्येनापनयेदियुक्तम् ॥ ५५ ॥
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । |
नाप्सु मूत्रमिति ॥ मूत्रं पुरीषं श्लेष्माणं मूत्राद्यमेध्यलिप्तवस्त्रं अन्यद्वा भुक्तोच्छिष्टाद्यमेध्यं रुधिरं विषाणि च कृत्रिमाकृत्रिमभेदभिन्नानि न जले प्रक्षिपेत् ॥ ५६ ॥
नैकः सुप्याच्छून्यगेहे श्रेयांसं न प्रबोधयेत् । |
नैक इति ॥ उत्सन्नजनवासगेहे नैकः शयीत । वित्तविद्यादिभिरधिकं च सुप्तं न