आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । |
आर्द्रपाद इति ॥ जलार्द्रपादो भोजनमाचरेत् । नार्द्रपादः सुप्यात् । यस्मादार्द्रपादो भुञ्जानः शतायुर्भवति ॥ ७६ ॥
अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् । |
अचक्षुर्विषयमिति ॥ तरुगुल्मलतागहनत्वेनाचक्षुर्गोचरमरण्यादिदेशं दुर्गं नाक्रामेत् । सर्पचौरादेरन्तर्हितस्य संभवात् । पुरीषं मूत्रं च न निरीक्षेत । बाहुभ्यां नदीं न तरेत् ॥ ७७ ॥
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः। |
अधितिष्ठेदिति ॥ दीर्घमायुर्जीवितुमिच्छुः केशादीन्नाधिरोहेत् । भग्नमृन्मयभाजनशकलानि कपालिकाः ॥ ७८ ॥
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः। |
न संवसेदिति ॥ पतितादिभिर्ग्रामान्तरवासिभिरपि सह न संवसेन् । एकतरुच्छायादौ न समीपे वसेत् । अतो 'नाधार्मिके वसेद्ग्रामे' इत्यतो भेदः । निषादाच्छूद्रायां जातः पुल्कसः । वक्ष्यति च 'जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः' इति । अवलिप्ता धनादिमदगर्विताः । अन्त्या अन्त्यजा रजकादयः । अन्त्यावसायिनो निषादस्त्रियां चाण्डालाज्जाताः। वक्ष्यति च 'निषादस्त्री तु चाण्डालात्पुत्रमन्त्यावसायिनम् ॥ ७९ ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । |
न शूद्रायेति ॥ शूद्राय मतिं दृष्टार्थोपदेशं न दद्यात् । धर्मोपदेशस्य पृथङ्निर्देशात्। अदासशूद्रायोच्छिष्टं न दद्यात् । दासगोचरतया 'उच्छिष्टमन्नं दातव्यम्' इति वक्ष्यमाणत्वाददोषः । द्विजोच्छिष्टं च भोजनमिति भोक्तुर्विधिर्दातुरुच्छिष्टदाननिषेधेऽपि यथासंभवलब्धविषयः । हविष्कृतमिति । यस्यैकदेशो हुतः स हविःशेषो न दातव्यः । धर्मोपदेशो न शूद्रस्य कर्तव्यः । व्रतं चास्य प्रायश्चित्तरूपं साक्षान्नोपदिशेत्, किंतु ब्राह्मणं मध्ये कृत्वा तदुपदेशव्यवधानात् । यथाहाङ्गिराः-'तथा शूद्रं समासाद्य सदा धर्मपुरःसरम् । अन्तरा ब्राह्मणं कृत्वा प्रायश्चित्तं समादिशेत्' । प्रायश्चित्तमिति सकलधर्मोपदेशस्योपलक्षणार्थम् ॥८०॥