गवेति ॥ यदन्नं गवाघ्रातं घुष्टान्नं को भोक्तेत्युपोध्दृष्ट्वान्नं सत्रादौ यद्दीयते । विशेषत इति भूरिदोषतया प्रायश्चित्तगौरवार्थम् । गणान्नं शठब्राह्मणसङ्घान्नं । गणिका वेश्या तस्या अन्नं । शास्त्रविदा च यद्दुष्टमिति निन्दितं तच्च न भुञ्जीत ॥ २०९ ॥
स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च । |
स्तेनेति ॥ चौरगायनजीविनोस्तथा तक्षवृत्तिजीवनस्य वृद्धथुपजीविनश्चान्नं न भुञ्जीत । तथा यज्ञे दीक्षितस्य प्रागग्नीषोमीयात् । कदर्यस्य कृपणस्य । निगडस्येति तृतीयार्थे षष्टी। निगडेन बद्धस्य । गोविन्दराजस्तु बद्धशब्दस्य बन्धनैर्विनाप्ययोनिगडैर्निगडितस्य दत्तायोनिगडस्येति व्याख्यातवान् ॥ २१० ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । |
अभिशस्तस्येति ॥ महापातकित्वेन संजातलोकविक्रोशस्य, नपुंसकस्य, पुंश्चल्या व्यभिचारिण्या अगणिकाया अपि, दाम्भिकस्य छद्माना धर्मचारिणो बैडालव्रतिकादेरन्नं न भुञ्जीत । शुक्तं यत्स्वभावतो मधुरं दध्यादिसंपर्कवशेनोदकादिना चाम्लादिभावं गतम्, पर्युपितं रात्र्यन्तरितम्, शूद्रस्यान्नं न भुञ्जीतेति संबन्धः । उच्छिष्टं च भुक्तावशिष्टान्नमविशेषात्कस्यापि न भुञ्जीत । गुरूच्छिष्टं च विहितत्वाद्भोज्यम् । गोविन्दराजस्तु शूद्रस्योच्छिष्टं तद्भुक्तावशिष्टं च स्थालीस्थमपि न भुञ्जीतेत्याह ॥ २१ ॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः। |
चिकित्सकस्येति ॥ चिकित्साजीविनः, मृगयोर्मांसविक्रयार्थं मृगादिपशुहन्तुः, क्रूरस्यानृजुप्रकृतेः, निषिद्धोच्छिष्टभोकरन्नं न भुञ्जीत । उग्रो दारुणकर्मा तस्यान्नम्। 'गोविन्दराजो मञ्जर्यामुग्रं राजानमुक्तवान् । मनुवृत्तौ च शूद्रायां क्षत्रियोत्पन्नमभ्यधात् । 'भेदोक्तेर्याज्ञवल्कीये नोग्रो राजेति वावदत् । आश्चर्यमिदमेतस्य स्वकीयहृदि भूषणम् ॥' सूतिकान्नं सूतिकामुद्दिश्य यत्क्रियते तदन्नं तत्कुलजैरपि न भोक्तव्यम् । एकपङ्क्तिस्थानन्यानवमन्य यत्रान्ने भुज्यमाने केनचिदाचमनं क्रियते तत्पर्याचान्तम् । अनिर्दशं सूतिकान्नं वक्ष्यमाणत्वान्न भुञ्जीत ॥ २१२ ॥
अनर्चितं वृथामांसमवीरायाश्च योषितः । |
अनर्चितमिति ॥ अर्चार्हस्य यदवज्ञया दीयते, वृथामांसं देवतादिमुद्दिश्य यन्न कृतं, अवीरायाः पतिपुत्ररहितायाः, शत्रुनगरपतितानां च, उपरि कृतक्षुतं चान्नं न भुञ्जीत ॥ २१३॥
मनु० १५