अध्यायः ५] गन्ध मुक्तावलीसंवलिता ! २०१
तैजसानां मणीनां च सर्वस्याश्ममयस्य च । |
तैजसेति ॥ तैजसानां सुवर्णादीनां भरकतादिमणीनां पापाणमयस्य च सर्वस्य भस्मना जलेन मृत्तिकथा च मन्वादिभिः शुद्धिरुक्ता । निलेपस्य जलेनैवान्तरं शुद्वद्धेर्वक्ष्यमाणन्यादिदमुच्छिष्टघृतादिलिप्तविश्यम् । तत्र मृद्भस्मनोर्गन्धक्षयककार्यत्वाद्विकल्पः ! आपस्तूभवत्र समुच्चीयन्ते ॥ १११ ॥
निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति । |
निर्लेपमिति ॥ उच्छिष्टादिलेपरहितं सौवर्णभाण्डं, जलभवं च शङ्खमुक्तादि, पाषाणमयं च राजतमनुपस्कृतं रेखादिगुणान्तराधानरहितं तथाविधनलासंभवाज्जलेनैव भस्मादिरहितेन शुध्यति ॥११२।।
अपामग्नेश्च संयोगाद्धेमं रौप्यं च निर्वंशौ। |
अपमग्नेरिति, अग्पिनिर्वै वरुणनीरकाप्रयत' इत्यादि वेदे श्रूयते । तथा 'अग्नेः सुवर्णमिन्द्रियं, वरुणानीनां रजतम्' इत्यादिश्रुतिप्वग्न्यापः संयोगात्सुवर्णं रजतं चोद्भुतं यत्पादतस्तयोः स्वेन कारणेनैव जलेनात्यन्तोपघातेनाग्निना निर्णेकः शुद्धिहेतुर्गुणवत्तरः प्रशस्ततरः ॥ ११३ ॥
ताम्रायःकांस्यरैत्यानां वपुणः सीसकस्य च । |
ताम्राय इति ॥ अयो लौहं, रीतिः पित्तलं तद्भवं पात्रं रैत्यं, त्रपु रङ्गं, एषां भस्माल्लोडकै. शोधनं कर्तव्यम् । यथार्हं यस्य यदर्हति । 'अम्भसा हेमरौप्यायःकांस्यं शुध्यति भस्मना । अम्लैस्तानं च रैत्यं च पुनःपाकेन मृन्मयम्' इति बृहस्पत्यादिवचनाद्विशेषोऽत्र बोद्धव्यः ॥ ११४ ॥
द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । |
द्रावाणां चेनि ॥ द्रावाणां घृततैलानां काककीटाद्युपहतानां बौधायनादिवचनाप्रससृतिमात्रप्रमाणानां प्रादेशप्रमाणकुशपत्रद्वयाभ्यामुत्पवनेन शुद्धिः। संहतानां च शय्यादीनामुच्छिष्टाछुपघाते प्रोक्षणं, दारवाणां चात्यन्तोपघाते तक्षणेन ॥ ११५॥
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । |