पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६]] मन्वर्थमुक्तावलीसंवलिता। २१३ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवनिर्वपेत्पृथक् ॥ ११ ॥ वासन्तेत्यादि । वसन्तोद्भवैः शरदुद्भवैर्मेध्यैर्यागाङ्गभूतैर्मुन्यत्रैर्नीवारादिभिः स्वयमानीतैः पुरोडाशांश्चरून्यथाशास्त्रं तत्तद्यागादिसिद्धये संपादयेत् ॥ ११ ॥ देवताभ्यस्तु तद्धुत्वा वन्यं मध्यतरं हविः। शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ १२ ॥ देवताभ्य इत्यादि ॥ तदनोद्भवनीवारादिकसाधितमतिशयेन यागाह हविर्देव- ताभ्य उपकल्प्य शेषान्नमुपभुञ्जीत । आत्मना च कृतं लवणमूषरलवणाधुप- भुजीत ॥ १२॥ स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ॥१३॥ स्थलजेति ॥ स्थलजलोद्भवशाकान्यरण्ययज्ञियवृक्षोद्भवानि पुष्पमूलफलानी- मुद्यादिफलोद्भवांश्च स्नेहानद्यात् ॥ १३ ॥ वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिकं चैव श्लेष्मातकफलानि च ॥ १४ ॥ वर्जयेदित्यादि ॥ माक्षिक, मांसं । भौमानीति प्रसिद्धदर्शनार्थम् । भौमादीनि कवकानि छत्राकान्, भूस्तृणं मालवदेशे प्रसिद्धं शाकं, शिग्रुकं वाहीकेषु प्रसिद्धं शाकं, श्लेष्मातकफलानि वर्जयेत् । गोविन्दराजस्तु भौमानि कवकानीत्यन्यव्यवच्छेदकं विशेषणमिच्छन्भौमानां कवकानां निषेधः वाणिां तु भक्षणमाह । तदयुक्तम् । मनुनैव पञ्चमे द्विजातेरेव कवकमात्रनिषेधावनस्थगोचरतया नियमातिशयस्यो- चितत्वात् । यमस्तु-'भूमिजं वृक्षजं वापि छत्राकं भक्षयन्ति ये । ब्रह्मनांस्तान्वि- जानीयाब्रह्मवादिषु गर्हितान् ॥' इति विशेषेण वृक्षजस्यापि निषेधमाह । मेधाति- थिस्तु भौमानीति स्वतन्त्रं पदं वदन्गोजिटिका नाम कश्चित्पदार्थो वनेचराणां प्रसि- द्धस्तद्विषयं निषेधमाह । तदपि बहुष्वभिधानकोशादिप्वप्रसिद्धं न श्रद्दधीमहि । कवकानां द्विजातिविशेष पाञ्चमिके निषेधे सत्यपि पुनर्निपेधो भूस्तृणादीनां निषेधेऽपि च समप्रायश्चित्तविधानार्थः ॥ १४ ॥ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ १५॥ त्यजेदिति ॥ संवत्सरनिचयपक्षे पूर्वसंचितनीवाराद्यन्नं जीर्णानि च वासांसि शाकमूलफलानि चाश्विने मासि त्यजेत् ॥ १५ ॥ न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजातान्यार्तोऽपि मूलानि च फलानि च ॥ १६ ॥