पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७ ] मन्वर्थमुक्तावलीसंवलिता। २४५ यस्मात् संग्रामेविति ॥ युद्धेष्वपराङ्मुखत्वं प्रजानां च रक्षणं ब्राह्मणपरिचयाँ गुतदाज्ञामतिशयितं स्वर्गादिश्रेयःस्थानम् ॥ ८८ ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः॥ ८९ ॥ अतएव आहवेप्विति ॥ राजानो मिथः स्पर्धमाना युद्धेष्वन्योन्यं हन्तुमि- च्छन्तः प्रकृष्टया शक्त्या संमुखीभूय युध्यमानाः स्वर्ग गच्छन्ति । यद्यपि युद्धस्य शत्रुजयधनलाभादिरूपं दृष्टमेव फलं न स्वर्गस्तथापि युद्धाश्रितापराङ्मुखत्व- नियमस्य स्वर्गः फलमिति न दोषः ॥ ८९ ॥ न कूटैरायुधैर्हन्यायुध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ९० ॥ नेत्यादि ॥ कूटान्यायुधानि बहिःकाष्टादिमयान्यन्तर्गुप्तनिशितशस्त्राण्येतैः समरे युध्यमानः शत्रून हन्यात् । नापि काकारफलकैबर्बाणैः । नापि विषाक्तैः । नाप्यग्निदीप्तफलकैः ॥ १० ॥ न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवासीति वादिनम् ॥ ९१ ।। न चेति ॥ स्वयं रथस्थो रथं त्यक्त्वा स्थलारूढं न हन्यात् । तथा नपुंसकं, बद्धाञ्जलिं, मुक्तकेशं, उपविष्टं, त्वदीयोऽहमित्येवंवादिनं न हन्यात् ॥ ९१ ॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ।। ९२ ॥ न सुप्तमिति ॥ सुप्त, मुक्तसन्नाहं, विवस्त्रं, अनायुधं, अयुध्यमानं, प्रेक्षक, अन्येन सह युध्यमानं च न हन्यात् ॥ ९२ ॥ नायुधव्यसनप्राप्त नात नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुसरन् ॥ ९३ ॥ नेत्यादि ॥ भग्नखड्गाद्यायुधं, पुत्रशोकादिनात, बहुप्रहाराकुलं, भीतं, युद्धप- राङ्मुखं, शिष्टक्षत्रियाणां धर्म स्सरन्न हन्यात् ॥ ९३ ॥ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यदुष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥ ९४ ॥ यस्त्विति ॥ यस्तु योधो भीतः पराङ्मुखः सन्युद्धे शत्रुभिर्हन्यते स पोषणकर्तुः प्रभोर्यर्दुष्कृतं तत्सर्वं ग्रामोनि । शास्त्रप्रमाणके च सुकृतदुष्कृते यथाशास्त्रं संक्रम- योग्ये एव सिद्ध्यतः । अतएवोपजीव्यशास्त्रेण बाधनान्न प्रतिपक्षानुमानोदयोऽपि । ,