पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V अध्यायः९] मन्वर्थमुक्तावलीसंवलिता। ३८७ राष्ट्रेषु रक्षाधिकृतान्सामन्तांश्चैव चोदितान् । अभ्याघातेषु मध्यस्थाञ्छिष्याचौरानिव द्रुतम् ॥ २७२ ॥ राष्ट्रेष्विति ॥ ये राष्ट्रेपु रक्षानियुक्ताः, ये च सीमान्तबासिनः क्रूराः सन्तश्चौर्यो- पदेशे मध्यस्था भवन्ति तांश्चौरवत्क्षिप्रं दण्डयेत् ॥ २७२ ॥ यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ॥ २७३ ॥ यश्चापीति ॥ याजनप्रतिग्रहादिना परस्य यागदानादिधर्ममुत्पाद्य यो जीवति स धर्मजीवनो ब्राह्मणः सोऽपि यो धर्ममर्यादायाच्युतो भवति तमपि स्वधर्मात्परिभ्रष्टं दण्डेनोपतापयेत् ॥ २७३ ॥ ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः॥२७४॥ ग्रामेति ॥ ग्रामलुण्ठने तस्करादिभिः क्रियमाणे, हिताभङ्गे जलसेतुभङ्गे जाते। 'क्षेत्रोत्पन्नसस्यनाशने वृत्तिभङ्गे च' इति मेधातिथिः। पथि चौरदर्शने तन्निकटव- तिनो यथाशक्ति ये रक्षां न कुर्वन्ति ते शय्यागवाश्वादिपरिच्छदसहिता देशा- निर्वासनीयाः ॥ २७४॥ राज्ञः कोषापहर्तृश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥ २७५ ॥ राज्ञ इति ॥ राज्ञो धनगृहाडनापहारिणस्तथा तदाज्ञाव्याघातकारिणः शत्रूणां च राज्ञा सह वैरिवृद्धिकारिणोऽपराधापेक्षया करचरणजिह्वाच्छेदनादिभिर्नानान- कारदण्डैर्घातयेत् ॥ २७५ ॥ संधि छित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः। तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ २७६ ॥ संधिमिति ॥ ये रात्रौ संधिच्छेदं कृत्वा परधनं तस्करा मुष्णन्ति तेषां राजा हस्तद्वयं छित्त्वा तीक्ष्णे शूले तानारोपयेत् ॥ २७६ ॥ अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ २७७ ॥ अङ्गुलीरिति ॥ पटप्रान्तादिस्थितं सुवर्णादिकं ग्रन्थिमोक्षणेन यश्चोराव प्रन्थिभेदस्तस्य प्रथमे द्रव्यग्रहणेऽङ्गुलीश्छेदयेत् । तेचाङ्गुष्टतर्जन्यौ 'उत्थे भेदी करसंदंशहीनको' इति याज्ञवल्क्यवचनात् । द्वितीये ग्रहणे येत् । तृतीये ग्रहणे वधार्हो भवति ॥ २७७ ॥ 4॥२९०॥