पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ९ अग्निदान्भक्तदांश्चैव तथा शस्त्रावकाशदान् । संनिधातूंश्च मोषस्स हन्याचौरमिवेश्वरः ॥ २७८ ॥ अग्निदानिति ॥ ग्रन्थिभेदादिकारिणो विज्ञायाग्निभक्तशस्त्रावस्थानप्रदान्मुष्यत इति मोपश्चौरधनं तस्यावस्थापकांचौरवाजा निगृह्णीयात् ॥ २७८ ॥ तडागभेदकं हन्यादप्सु शुद्धवधेन वा । यद्वापि प्रतिसंस्कुर्यादाप्यस्तूत्तमसाहसम् ॥ २७९ ॥ तडागेति ॥ यः स्नानदानादिना जलोपकारकं भागं सेतुभेदादिना विनाशयति तमप्सु मन्जनेन प्रकारान्तरेण वा हन्यात् । यद्वा यदि तडागं पुनः संस्कुर्यात्तदो- त्तमसाहसं दण्ड्यः ॥ २७९ ॥ कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहरीश्च हन्यादेवाविचारयन् ॥ २८० ॥ कोष्टेति ॥ राजसंबन्धिधान्यादिषु धनागारायुधगृहयोदेवप्रतिमागृहस्य च बहु- धनव्ययसाध्यस्य विनाशकान्हस्त्यश्वरथस्य चापहर्तृशीघ्रमेव हन्यात् । यत्तु संक्र- मध्वजयष्टिदेवताप्रतिमाभेदिनः पञ्चशतदण्डं वक्ष्यति सोऽस्मादेव देवतागारभे- दकस्य वधविधानान्मृन्मयपूजितोज्झितदेवताप्रतिमाविपयोऽत्र द्रष्टव्यः ॥२८०॥ यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमं वाप्यपां भिद्यात्स दाप्यः पूर्वसाहसम् ॥ २८१ ॥ यस्त्विति ॥ यः पुनः प्रजार्थं पूर्व केनचित्कृतस्य तडागस्योदकमेव गृह्णाति कृत्स्नतडागोदकनाशने वधदण्डः प्रागुक्तः । तथोदकगमनमार्ग सेतुबन्धादिना यो नाशयति स प्रथमसाहसं दण्ड्यः ॥ २८१ ॥ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कापिणौ दद्यादमेध्यं चाशु शोधयेत् ॥ २८२ ॥ समुत्सृजेदिति ॥ अनातः सन्यो राजपदेषु पुरीपं कुर्यात्स कार्षापमद्वय दण्डं दद्यात्स चामेध्यं शीघ्रमेवापसारयेत् ॥ २८२ ॥ आपद्गतोऽथवा वृद्धा गर्भिणी बाल एव वा । परिभाषणमर्हन्ति तच शोध्यमिति स्थितिः॥ २८३ ॥ आपद्गत इति ॥ व्याधितवृद्धगर्भिणीबाला न दण्डनीयाः किंतु ते पुनः किंकृत- ग्रामेष्कि परिभाषणीयाः। तच्चामध्यं शोधनीया इति शास्त्रमर्यादा ॥ २८३ ॥ सर्वेषां मिथ्या प्रचरतां दमः। मो मानुषेषु तु मध्यमः ॥ २८४॥