पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११ ] मन्वर्थमुक्तावलीसंवलिता। ४४३ कामत इति ॥ इच्छातो द्विजः 'अवकीर्णी भवेद्गत्वा ब्रह्मचारी च योपितम् इति वचनात्स्त्रीयोनौ शुक्रोत्सगै ब्रह्मचर्यस्यातिक्रममवकीर्णरूपं सर्वज्ञा वेदविदः प्राहुः ॥ १२०॥ मारुतं पुरुहूतं च गुरुं पावकमेव च । चतुरो तिनोऽभ्येति ब्राह्मं तेजोऽवकीणिनः ॥ १२१ ॥ मारुतमिति ॥ व्रतचारिणो वेदाध्ययननियमानुष्ठानज तेजः तदवकीर्णिनः सतो मरुदिन्द्रबृहस्पतिपावकांश्चतुरः संक्रामत्यतस्तेभ्य आहुतीर्जुहुयादित्याज्याहुतेरय- मनुवादः ॥ १२ ॥ एतस्मिन्ननसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश्चरेद्भक्षं स्वकर्म परिकीर्तयन् ॥ १२२ ॥ एतस्मिन्निति ॥ एतस्मिन्नवकीर्णाख्ये पाप उत्पन्ने पूर्वोक्तं गर्दभयागादि कृत्वा गर्दभचर्म परिधाय'इति हारीतस्मरणात्स गर्दभसंबन्धिचर्मप्रावृतोऽवकीर्यहमिति स्वकर्मख्यापनं कुर्वन्सप्त गृहाणि भैक्षं चरेत् ॥ १२२ ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंत्रिषवणं त्वब्देन स विशुद्ध्यति ॥ १२३ ॥ तेभ्य इति ॥ तेभ्यः सप्तगृहेभ्यो लब्धेन भैक्षेणैककालमाहारं कुर्वन्सायंप्रातर्म- ध्यन्दिनेषु च स्नानमाचरन्सोऽवकीर्णी संवत्सरेणैव विशुद्ध्यति ॥ १२३ ॥ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया। चरेत्सांतपनं कृच्छ्रे प्राजापत्यमनिच्छया ॥ १२४ ॥ जातीति ॥ 'ब्राह्मणस्य रुजः कृत्वा' इत्यादि जातिभ्रंशकर्मोक्तं तन्मध्यादन्यतमं कर्मविशेषमिच्छातः कृत्वा वक्ष्यमाणं सांतपनं सप्ताहसाध्यं कुर्यात् । अनिच्छातः पुनः कृत्वा प्राजापत्यं वक्ष्यमाणं चरेत् ॥ १२४ ॥ संकरापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकैख्यहम् ॥ १२५ ॥ संकरेति ॥ 'खराश्वोष्ट्र' इत्यादिना संकरीकरणान्युक्तानि। निन्दितेभ्यो धनादान- म्' इत्यादिना चापात्रीकरणान्युक्तानि । तेषां मध्यादन्यतममिच्छातः कृत्वा चान्द्रा- यणं मासं शुद्धये कुर्यात् । 'कृमिकीटवयोहत्या' इत्यादिना मलिनीकरणान्युक्तानि । तन्मध्यादेकमिच्छातः कृत्वा त्रिरात्रं यवागू कथितामनीयात् ॥ १२५ ॥ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः। वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ १२६ ॥ तुरीय इति ॥ ब्रह्महत्यातुरीयो भागः त्रैवार्षिकरूपः द्वादशवार्षिकस्य चतुर्थों