पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ मनुस्मृतिः। [ अध्यायः १

यागादिः यथाक्रमं प्रतियुगं पादंपादमवरोपितो हीनः कृतस्तथा धनविद्यार्जितोऽपि यो धर्मः प्रचरति सोऽपि चौर्यासत्यच्छद्मभिः प्रतियुगं पादशो हासाब्द्यपगच्छति । त्रेतादियुगैः सह चौरिकानृतच्छद्मनां न यथासंख्यम् । सर्वत्र सर्वेषां दर्शनात् ॥ ८२॥

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः।। ८३॥

अरोगा इति ॥रोगनिमित्ताधर्माभावादरोगाः सर्वसिद्धकाम्यफलाः प्रतिबन्धकाधर्माभावाच्चतुर्वर्षशतायुष्मं च स्वाभाविकम् । अधिकायुःप्रापकधर्मवशादधिकायुपोऽपि भवन्ति । तेन 'दशवर्षसहस्राणि रामो राज्यमकारयत्' इत्याद्यविरोधः । 'शतायुवै पुरुषः' इत्यादि श्रुतौ तु शतशब्दो बहुत्वपरः कलिपरो वा । एवंरूपा मनुष्याः कृते भवन्ति । त्रेतादिषु पुनः पादपादमायुरल्पं भवतीति ॥ ८३ ॥

वेदोक्तमायुर्मानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥ ८४ ॥

वेदोक्तमायुरिति ॥ 'शतायुवै पुरुषः' इत्यादि वेदोक्तमायुः, कर्मणां च काम्यानां फलविषयाः प्रार्थनाः, ब्रह्मणादीनां च शापानुग्रहक्षमत्वादिप्रभावा युगानुरूपेण फलन्ति ॥ ८४ ॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नृणां युगहासानुरूपतः ॥ ८५ ॥

अन्य इति ॥ कृतयुगेऽन्ये धर्मा भवन्ति । त्रेतादिष्वपि युगापचयानुरूपेणा- धर्मवैलक्षण्यम् ॥ ८५॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ ८६ ॥

तपः परमिति ॥ यद्यपि तपःप्रभृतीनि सर्वाणि सर्वयुगेष्वनुष्टयानि तथापि सत्ययुगे तपः प्रधानं महाफलमिति ज्ञाप्यते । एवमात्मज्ञानं त्रेतायुगे, द्वापरे यज्ञः, दानं कलौ ॥ ८६॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थ स महाद्युतिः।
मुखबाहूरुपजानां पृथक्कर्माण्यकल्पयत् ॥ ८७ ॥

सर्वस्यास्येति ॥ स ब्रह्मा महातेजा अस्य सर्गस्य समग्रस्य 'अग्नौ प्रास्ताहुतिः' इति न्यायेन रक्षार्थ मुखादिजातानां ब्राह्मणादीनां विभागेन कर्माणि दृष्टादृष्टार्थानि निर्मितवान् ॥ ८७ ॥

अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ ८८ ॥