पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[अध्यायः २
मनुस्मृतिः।

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥ ३४ ॥

 चतुर्थे मासीति ॥ चतुर्थे मासे बालस्य जन्मगृहान्निष्क्रमणमादित्यदर्शनार्थ कार्यम् । अन्नप्राशनं च षष्टे मासे, अथवा कुलधर्मत्वेन यन्मङ्गलमिष्टं तत्कर्तव्यं नेनोक्तकालादन्यकालेऽपि निष्क्रमणम् । तथाच यमः- -'ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम्' । सकलसंस्कारशेष(विषय)श्चायम् । तेन नाम्नां शर्मादिकमप्युपपदं कुलाचारेण कर्तव्यम् ॥ ३४ ॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ ३५ ॥

 चूडाकर्मेति ॥ चूडाकरगं प्रथमे वर्षे तृतीये वा द्विजातीनां धर्मतो धर्मार्थ कार्यम् । श्रुतिचोदनात् । 'यत्र बाणाः संपतन्ति कुमारा विशिखा इव' इति मन्त्रलिङ्गात्कुलधर्मानुसारेणायं व्यवस्थितविकल्पः । अत एवाश्वलायनगृह्यम्- 'तृतीये वर्षे चौलं यथाकुलधर्मं वा' ॥ ३५ ॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणसोपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः॥३६॥

 गर्भाष्टम इति ॥ गर्भवर्षादष्टमे वर्षे ब्राह्मणस्योपनायनं कर्तव्यम् । उपनयनमेवोपनायनम् । 'अन्येषामपि दृश्यते' इति दीर्घः । गर्भैकादशे क्षत्रियस्य, गर्भद्वादशे वैश्यस्य ॥ ३६॥

ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ ३७॥

 ब्रह्मवर्चसकामस्येति ॥ वेदाध्ययनतदर्थज्ञानादिप्रकर्षकृतं तेजो ब्रह्मवर्चसं तत्कामस्य ब्राह्मणस्य गर्भपञ्चमे वर्षे उपनयनं कार्यम् । क्षत्रियस्य हस्त्यश्वादिराज्यबलार्थिनो गर्भषष्ठे । वैश्यस्य बहुकृष्यादिचेष्टार्थिनो गर्भाष्टमे गर्भवर्षाणामेव प्रकृतत्वात् । यद्यपि बालस्य कामना न संभवति तथापि तत्पितुरेव तद्गतफलकामना तस्मिन्नुपचर्यते ॥३७ ॥

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥ ३८ ॥

 आषोडशादिति ॥ अभिविधावाङ् । ब्राह्मणक्षत्रियविशामुक्ताष्टमैकादशद्वादशवर्षद्वैगुण्यस्य विवक्षितत्वात् षोडशवर्षपर्यन्तं ब्राह्मणस्य सावित्र्यर्थे वचनमुपनयनं नातिक्रान्तकालं भवति । क्षत्रियस्य द्वाविंशतिवर्षपर्यन्तम् । वैश्यस्य चतुर्विशतिवर्षपर्यन्तम् । अत्र मर्यादायामाङ्। केचिद्व्याख्यापयन्ति यमवचनदर्शनात् तथा च यमः-'पतिता यस्य सावित्री दश वर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा