हृद्गाभिरिति ॥ ब्राह्मणो हृदयगामिनीभिः, क्षत्रियः कण्ठगामिनीभिः, वैश्योऽन्तरास्यप्रविष्टाभिः कण्ठमप्राप्ताभिरपि, शूद्रो जिह्वौष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतो भवति । अन्तत इति तृतीयार्थे तसिः ।। ६२ ।।
आचमनाङ्गतामुपवीतस्य दर्शयितुमुपवीतलक्षणं ततः प्रसङ्गेन प्राचीनावीतीन्यादिलक्षणमाह-
उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः। |
उद्धृते इति ॥ दक्षिणे पाणावुद्धृते वामस्कन्धस्थिते दक्षिणस्कन्धावलम्बे यज्ञसूत्रे वस्त्रे वोपवीती द्विजः कथ्यते । वामपाणावुद्धृते दक्षिणस्कन्धस्थिते वामस्कन्धावलम्बे प्राचीनावीती भण्यते । सव्ये प्राचीनआवीतीति छन्दोऽनुरोधादुक्तम् । तथाच गोभिल: - 'दक्षिणं बाहुमृद्धृत्य शिरोऽवधाय सर्व्येऽसे प्रतिष्ठापयति दक्षिणस्कन्धमवलम्बनं भवत्येवं यज्ञोपवीती भवति । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिर्णेऽसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति । निवीती कण्ठसज्जन इति शिरोवधाय दक्षिणपाण्यादावप्यनुद्धृते कण्ठादेव सज्जनऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे च निवीती भवति ॥ ६३ ॥
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । |
मेखलामिति ॥ मेखलादीनि विनष्टानि भिन्नानि छिन्नानि च जले प्रक्षिप्यान्यानि स्वस्वगृह्योक्तमन्त्रैर्गृह्णीयात् ॥ ६४ ॥
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । |
केशान्त इति ॥ केशान्ताख्यो गृह्योक्तसंस्कारो ‘गर्भादिसंख्यावर्षाणाम्' इति बौधायनवचनाद्गर्भषोडशे वर्षे ब्राह्मणस्य, क्षत्रियस्य गर्भद्वाविंशे, वैश्यस्य ततो द्व्यधिके गर्भचतुर्विंशे कर्तव्यः ॥ ६५ ॥
अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः। |
अमन्त्रिकेति ॥ इयमावृदयं जातकर्मादिक्रियाकलापः समग्र उक्तकालक्रमेण शरीरसंस्कारार्थं स्त्रीणाममन्त्रकः कार्यः॥६६॥
अनेनोपनयनेऽपि प्राप्त विशेषमाह-
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः। |
वैवाहिक इति ॥ विवाहविधिरेव स्त्रीणां वैदिकः संस्कार उपनयनाख्यो मन्वा-