पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः २]
४५
मन्वर्थमुक्तावलीसंवलिता।

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ ७९ ॥

 सहस्रकृत्व इति ॥ संध्यायामन्यत्र काल एतत्प्रकृतं प्रणवव्याहृतित्रयसावित्र्यात्मकं त्रिकं ग्रामाद्बहिर्नदीतीरारण्यादौ सहस्रावृत्तिं जपित्वा महतोऽपि पापात्सर्प इव कञ्चुकान्मुच्यते । तस्मात्पापक्षयार्थमिदं जपनीयमित्यप्रकरणेऽपि लाघवार्थमुक्तम् । अन्यत्रैतत्त्रयोच्चारणमपि पुनः कर्तव्यं स्यात् ॥ ७९ ॥

एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।
ब्रह्मक्षत्रियविट्योनिर्गर्हणां याति साधुषु ॥ ८० ॥

 एतयर्चेति ॥ संध्यायामन्यत्र समय ऋचैतया सावित्र्या विसंयुक्तस्त्यक्तसावित्रीजपः स्वकीयया क्रियया सायंप्रातर्होमादिरूपया स्वकाले त्यक्तो ब्राह्मणः क्षत्रियो वैश्योऽपि सज्जनेषु निन्दां गच्छति । तस्मात्स्वकाले सावित्रीजपं स्वक्रियां च न त्यजेत् ॥ ८०॥

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ ८१ ॥

 ओंकारपूर्विका इति ॥ओंकारपूर्विकास्तिस्रो व्याहृतयो भूर्भुवःस्वरित्येता अक्षरब्रह्मावाप्तिफलत्वेनाव्यया त्रिपदा च सावित्री ब्रह्मणो वेदस्य मुखमाद्यम् । तत्पूर्वकवेदाध्ययनारम्भात् । अथवा ब्रह्मणः परमात्मनः प्राप्तेर्द्वारमेतत् । अध्ययनजपादिना निष्पापस्य ब्रह्मज्ञानप्रकर्षेण मोक्षावाप्तेः ॥ ८१ ॥

 अत एवाह-

योऽधीतेऽहन्यहन्येतांस्त्रीणि वर्षाण्यतन्द्रितः।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ८२ ॥

 योऽधीत इति ॥ यः प्रत्यहमनलसः सन्सावित्रीं प्रणवव्याहृतियुक्तां वर्षत्रयमधीते स परं ब्रह्माभिमुखेन गच्छति । स वायुभूतो वायुरिव कामचारी जायते। खं ब्रह्म तदेवास्य मूर्तिरिति खमूर्तिमान् भवति शरीरस्यापि नाशाद्ब्रह्मैव संपद्यते ॥४२॥

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः।
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ ८३ ।।

 एकाक्षरमिति ॥ एकाक्षरमोंकारः परं ब्रह्म परब्रह्मावाप्तिहेतुत्वात् । ओंकारस्य जपेन तदर्थस्य च परब्रह्मणो भावनया तदवाप्तेः । प्राणायामाः सप्रणवसव्याहृतिसशिरस्कगायत्रीभिस्त्रिरावृत्तिभिः कृताश्चान्द्रायणादिभ्योऽपि परं तपः । प्राणायामा इतिबहुवचननिर्देशात्त्रयोऽवश्यं कर्तव्या इत्युक्तम् । सावित्र्याः प्रकृष्टमन्यन्मन्त्रजातं नास्ति । मौनादपि सत्यं वाग्विशिष्यते। एषां चतुर्णां स्तुत्या चत्वार्येतान्युपासनीयानीति विधिः कल्प्यते । धरणीधरेण तु 'एकाक्षरपरं ब्रह्म प्राणायामपरं तपः' इति पठितं