अध्यायः २] मन्वर्थमुक्तावलीसंवलिता । ६५
सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे । |
सर्वं वेति ॥ पूर्वं वेदयज्ञैरहीनानाम्' इत्यनेनोकानामसंभवे सर्वं वा ग्राममुक्तगुरणहितमापे शुचिर्मौनी भिक्षेत । महापातकाद्यभिशस्तांस्त्यजेत् ॥ १८५ ॥
दूरादाहृत्य समिधः संनिदध्याद्विहायसि । |
दूरादिति ॥ दूरादिभ्यः परिगृहीतवृक्षेभ्यः समिध आनीय आकाशे धारणाशक्तः पटलादौ स्थापयेत् । ताभिश्च समिद्भिः सायंप्रातरनले होमं कुर्यात् ॥ १८६ ॥
अकृत्वा भैक्षचरणमसमिध्य च पावकम् । |
अकृत्वेति ॥ भिक्षाहारं, सायंप्रातः समिद्धोम, अरोगो नैरन्तर्येण ससरानमकृत्वा लुप्तव्रतो भवति । ततश्वावकीर्णिप्रायश्चित्तं कुर्यात् ॥ १८७ ॥
भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्रती । |
भैक्षेणेति ॥ ब्रह्मचारी न एकानमद्याकिंतु बहुगृहाहृतभिक्षासमूहेन प्रत्यहं जीवेत् । यस्माद्भिक्षासमूहेन ब्रह्मचारिणो वृत्तिरुपवासतुल्या मुनिभिः स्मृता॥१८८॥
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् । |
व्रतवदिति ॥ पूर्वनिषिद्धस्यैकान्नभोजनस्यायं प्रतिप्रसवः । देवदैवत्ये कर्मणि देवतोद्देशेनाभ्यर्थितो ब्रह्मचारी व्रतवदिति व्रतविरुद्धमधुमांसादिवर्जितमेकस्याप्यन्नं यथेप्सितं भुञ्जीत । अथ पित्रुद्देशेनाभ्यर्थितो भवति तदा ऋषिर्यतिः सम्यग्दर्शनसंपन्नत्वात्स इव मधुमासवर्जितमेकस्याप्यन्नं यथेप्सितं भुञ्जीत इति स एवार्थों वैदग्ध्येनोक्तः, तथापि भैक्षवृत्तिनियमरूपं व्रतमस्य लुप्तं न भवति । याज्ञवल्क्योऽपि श्राद्धेऽभ्यर्थितस्यैकान्नभोजनमाह-'ब्रह्मचर्य स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥' इति । विश्वरूपेण तु 'व्रतमस्य न लुप्यते' इति पश्यता ब्रह्मचारिणो मांसभक्षणमनेन मनुवचनेन विधीयत इति व्याख्यातम् ॥ १८९॥
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । |
ब्राह्मणस्यैवेति ॥ ब्राह्मणक्षत्रियविशां त्रयाणामेव ब्रह्मचारिणां भैक्षाचरणविधानात् 'व्रतवत्' इत्यनेन तदपवादरूपमेकान्नभोजनमुपदिष्टं क्षत्रियवैश्ययोरपि पुन-