पृष्ठम्:मनोहरकाव्यमाला.pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६ ) एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ४२ ॥ न स्वयं कामकारेण तां त्यक्त्वाऽहमिहागतः। प्रचोदितस्तयैवोनस्त्वत्सकाशमिहागतः ॥ ४३ ॥ आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम् । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ ४४ ॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । । गच्छ गच्छेति मामाशु रुदती भयविक्लवा ॥४५॥ प्रचोद्यमानेन मया गच्छेति वहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं तत्प्रत्ययान्वितम् ॥ ४६ ॥ न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत्केनाप्येतदुदाहृतम् ॥ ४७ ॥ विगहितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि ॥४८॥ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । विखरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ॥ ४६ ।। राक्षसेनेरितं वाक्यं त्रासात्त्राहीति शोभने । न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ ५० ॥ अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका । न वास्ति त्रिषु लोकेषु पुमान्यो राघवं रणे ॥ ५१ ॥ जातो वा जायमानो वा संयुगे यः पराजयेत् । अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ ५२ ।। एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाणि मुञ्चन्ती दारुणं मामिदं वचः ॥ ५३ ॥ भावो मयि तवात्यर्थपाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे ॥ ५४॥