पृष्ठम्:मनोहरकाव्यमाला.pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६० ) संकेताद्भरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थ नैनमभ्यवपद्यसे ॥ ५५ ॥ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे ॥ ५६ ॥ एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः । क्रोधात्प्रस्फुरमाणोष्ठ श्राश्रमादभिनिर्गतः ॥ ५७ ॥ एवं व्रुवाणं सौमित्रिं रामः संतापमोहितः। अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः ॥ ५८ ॥ जानन्नपि समर्थ मां रक्षसामपवारणे । अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान् ॥ ५६ ।। न हि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ॥ ६॥ सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः । क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥ ६१॥ असौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः ॥ ६२ ॥ विकृष्य चापं परिधाय सायक सलीलवाणेन च ताडितो मया । मार्गी तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥ ६३ ॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम् । उपाहतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ ६४ ॥