पृष्ठम्:मनोहरकाव्यमाला.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६१ ) अन्वेषणम् । मृशमात्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरञ्चास्खलद्रामो वेपथुश्चास्य जायते ॥ १॥ उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं तु सीताया इति वै व्याजहार ह॥२॥ त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ ३॥ उद्भमन्निव वेगेन विक्षिपरघुनन्दनः। तत्र तत्रोटजस्थानमभिवीय समन्ततः ॥४॥ ददर्श पर्यशालां च सीतया रहितां तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥५॥ रुदन्तमिव वृक्षश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीन विध्वस्तं सत्यतं वनदैवतैः ॥६॥ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥ ७॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥८॥ गता विवेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ६ ॥ यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणाः श्रीमानुन्मत्त इव लक्ष्यते ॥१०॥ वृक्षात्वृक्षं प्रधावन्स गिरीश्चापि नदीनदम् । बभ्राम विलपन्रामः शोकपङ्कार्णवप्लुतः ॥ ११ ॥ अस्ति कच्चित्त्वया दृष्टा सा कदम्वप्रिया प्रिया । कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ १२॥