पृष्ठम्:मनोहरकाव्यमाला.pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२) स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् । शंसव यदि सा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥ अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा ॥ १४ ॥ ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् । लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ १५॥ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६ ॥ अशोक शोकापनुद शोकोपहतचेतनम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ १७ ॥ यदि ताल त्वया दृष्टा पक्कतालोपमस्तनी। कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ १८ ॥ यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा । प्रियां यदि विजानासि निःशङ्कं कथयस्व मे ॥ १६ ॥ अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् । कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया ॥ २०॥ चूतनीपमहासालान्पनसान्कुररांस्तथा । दाडिमानपि तान्गत्वा दृष्ट्वा रामो महायशाः ॥ २१॥ बकुलानथ पुंनागांश्चन्दनान्केतकांस्तथा । पृच्छन्रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ २२ ।। अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २३ ॥ गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २४ ॥ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धः कथयस्व न ते भयम् ॥ २५ ॥