पृष्ठम्:मनोहरकाव्यमाला.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६३ ) किं धावसि प्रिये नूनं दृष्टासि कमलक्षणे । वृक्षराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २६ ॥ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थ हास्यशीलासि किमर्थे मामुपेक्षसे ॥ २७ ॥ पीतकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥२८॥ नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छं प्राप्तं हि मां नूनं यथापेक्षितुमर्हति ॥ २६ ॥ व्यक्तं सा भक्षिता वाला राक्षसैः पिशिताशनैः। विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ ३०॥ नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ सा हि चन्दनवर्णाभा ग्रीवा ग्रैवेयकोचिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३२ ॥ नूनं विक्षिप्यमारणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानायौ सहस्ताभरणाङ्गदौ ॥ ३३ ॥ मया विरहिता वाला रक्षसां भक्षणाय वै। सार्थनेव परित्यक्ता भक्षिता बहुवान्धवा ॥ ३४ ॥ हा लक्ष्मण महावाहो पश्यसे त्वं प्रियां क्वचित् । हा प्रिये व गता भद्रे हा सीतेति पुनः पुनः ॥ ३५ ॥ इत्येवं विलपरामः परिधावन्वनाद्वनम् । क्वचिदुद्भमते योगात्वचिद्विभ्रमते बलात् ॥ ३६॥ कचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। स वनानि नदीः शैलान्गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥