पृष्ठम्:मनोहरकाव्यमाला.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६४ ) तदा स गत्वा विपुलं महद्वनं परीत्य सर्व त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८॥ दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च प्रविद्धान्यासनानि च ॥ ३६॥ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राकुश्य प्रगृह्य रुचिरौ भुजौ ॥४०॥ क नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ४१ ॥ वृक्षणावार्य यदि मां सीते हसितुमिच्छसि । श्रलं ते हसितेनाद्य मां भजख सुदुःखितम् ॥ ४२ ॥ यैः परिक्रीडसे सीते विश्वस्तैर्मगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥४३॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण । वृतं शोकेन महता सीताहरणजेन माम् ॥४४॥ परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ ४५ ।। श्रपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं वा मृपावादिनमेव च ॥ ४६ ।। धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥ ४७ ॥ मामिहोत्सृज्य करुणं कीर्तिनरमिवानृजुम् । क गच्छसि वरारोहे मा मोत्सृज सुमध्यमे ॥४८॥ त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपरामः सीतादर्शनलालसः॥४६॥