पृष्ठम्:मनोहरकाव्यमाला.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् । अनायासादयमानं तं सीतां शोकपरायणम् ॥ ५० ॥ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ ५१ ।। मा विषादं महावुद्धे कुरु यत्नं मया सह । इदं गिरिवरं वीर यहुकन्दरशोभितम् ॥ ५२ ।। प्रियकाननसंचारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनी वा सुपुष्पिताम् ॥ ५३॥ सरितं वापि संप्राप्ता मीनवञ्जुलसेविताम् । स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ ५४॥ जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ । तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे ॥ ५५ ॥ वनं सर्व विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुतस्थ मा स्म शोके मनः कृथाः ॥ ५६ ॥ एवमुक्तः स सौहार्दालक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ ५७ । तौ वनानि गिरीश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ॥ ५८ ॥ तस्य शैलस्य सानूनि शिलाश्च शिखराणि च । निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ ५६H विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेही पर्वते शुभाम् ॥ ६॥ ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ ६॥ प्राप्स्यसे त्वं महाप्राज्ञ मैथिली जनकात्मजाम् । यथा विष्णुर्महाबाहुबलिं यद्ध्वा महीमिमाम् ॥ ६ ॥