पृष्ठम्:मनोहरकाव्यमाला.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६६ ) एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः ॥ ६३॥ वनं सुविचितं सर्व पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्भरः ॥ ६४॥ नहि पश्यामि वैदेही प्राणेभ्योऽपि गरीयसीम् । एवं स विलपरामः मुहूर्त विह्वलोऽभवत् ॥ ६५ ॥ स विह्वलितसर्वाङ्गो गतवुद्धिर्विचेतनः । विषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ ६६ ॥ बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो वाष्पगद्गदः ॥ ६७ ॥ तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् । बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः ॥ ६८ ॥ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटच्युतम् । अपश्यंस्तां प्रियां सीतां प्राकोशत्स पुनः पुनः ॥ ६६ ॥ राम-विलापः ! सीतामपश्यन्धर्मात्मा शोकोपहतचेतनः । विललाप महावाहू रामः कमललोचनः ॥ १ ॥ पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः । उवाच राघवो वाक्यं विलापाश्रयर्दुवचम् ॥ २ ॥ त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये । श्रावृणोषि शरीरं ते मम शोकविवर्धनी ॥३॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगुहितुम् ॥ ४॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । प्रलं ते परिहासेन मम बाधावहेन वै ॥५॥