पृष्ठम्:मनोहरकाव्यमाला.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

विशेषेणाथमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥ ६ ॥ आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा ॥ ७ ॥ नहि सा विलपन्तं मामुपसंगैति लक्ष्मण । एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ॥ ८ ॥ शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः । हा ममार्ये व याताऽसि हा साध्वि वरवर्णिनि ॥६॥ हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति । सीतया सह निर्यातो विना सीतामुपागतः ॥१०॥ कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥ ११ ॥ कातरत्वं प्रकाशं हि सीतापनयनेन मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम् ॥ १२ ॥ कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥ १३ ॥ ॥ सुताविनाशसंतप्तो मोहस्य वशमेष्यति । अथवा न गमिष्यामि पुरीं भरतपालिताम् ॥ १४ ॥ वर्गोऽपि हि तया हीनः शून्य एव मतो मम । तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम् ॥ १५ ॥ न त्वहं तां विना सीतां जीवयं हि कथंचन । गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्वया ॥ १६ ॥ अनुशातोऽसि रामेण पालयेति वसुंधराम् । अम्बा च मम कैकेयी सुमित्रा च त्वया विभो ॥ १७ ॥ कौसल्या च यथान्यायमभिवाद्या ममाज्ञया । रक्षणीया प्रयत्नेन भवता सूक्तचारिणा ॥ १८ ॥