पृष्ठम्:मनोहरकाव्यमाला.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतायाश्च विनाशोऽयं मम चामित्रसूदन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥ १६॥ इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या । भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥ २० ॥ स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ॥ २१ ॥ स लक्ष्मण शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूप- मुष्णं विनिःश्वस्य रुदन्सशोकम् । न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । शोकानुशोको हि परम्पराया मामेति भिन्दन्हृदयं मनश्च ॥ २३ ॥ पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ २४ ॥ राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वानिये लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि ॥ २५ ॥