पृष्ठम्:मनोहरकाव्यमाला.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

(६६) सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम् । सीतावियोगात्पुनरभ्युदीर्णं काष्ठरिवाग्निः सहसोपदीप्तः ॥ २६ ॥ सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः । अप्यस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ २७ ॥ तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ २८ ॥ तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि ॥ २६ ॥ अस्मिन्मया सार्घमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वमाह सीता बहुवाक्यजातम् ॥ ३० ॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ ३१॥ पद्मानना पद्मपलाशनेत्रा पद्मानि वाऽऽनेतुमभिप्रयाता ।