पृष्ठम्:मनोहरकाव्यमाला.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०५ ) कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण ॥ ६१ ॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ १२ ॥ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ ६३ ॥ संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः । संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते ॥ ४ ॥ नैव यता न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥ ५॥ ममास्त्रवाणसंपूर्णमाकाशं पश्य लक्ष्मण । असंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥ ६६ ॥ संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ १७ ॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥ ६ ॥ त्रैलोक्यं तु करिष्यामि संयुक्त कालकर्मणा । न ते कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः ॥ ६ ॥ अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥ १०० । समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण । आकर्णपूर्णरिषुभिर्जीवलोकदुरावरैः ॥ १०१ ॥ करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुकानां विशिखानां बलं सुराः ॥ १०२॥ द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः॥१०३ ॥