पृष्ठम्:मनोहरकाव्यमाला.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०६ ) भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि ॥ १०४ ॥ बहुधा निपतिष्यन्ति वाणौघैः शकलीकृताः । निर्मर्यादानिमाल्लोकान्करिष्याम्यद्य सायकैः ॥ १०५ ॥ हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ॥ १०६ ॥ नाशयामि जगत्सर्व त्रैलोक्यं सचराचरम् । यावद्दर्शनमस्या वै तापयामि च सायकैः ॥ १०७ ॥ इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसंपुटः । वल्कलाजिनमावद्धय जटाभारमबन्धयत् ॥ १०८ ॥ तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव वभौ तनुः ॥ १०६ ॥ लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ ११० ॥ संदधे धनुषि श्रीमान्रामः परपुरञ्जयः। युगान्ताग्निरिव क्रुद्धं इदं वचनमब्रवीत् ॥ १११ ।। यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥ ११२ ॥ पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ ११३ ॥ नं तथा शोकसंतप्तं विलपन्तमनाथवत् । ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः । रामं संबोधयामास चरणौ चाभिपीडयन् ॥ ११४ ॥