पृष्ठम्:मनोहरकाव्यमाला.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११४ ) अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥४४॥ सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ ४५ ॥ कथं करोमि नाकारं स्वामिन् दत्त्वा यदृच्छया। अवश्यमेव दातव्यमृणं मे द्विजसत्तम ॥ ४६ ॥ स्वस्थो भव प्रदास्यामि सुवर्ण मनसेप्सितम् । किञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ ४७ ॥ विश्वामित्र उवाच कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थ-साधनम् ॥ ४८ ॥ वृथाऽऽशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृपम् ॥ ४६॥ तस्मात्कथय भूपाल न दास्यामीति सांप्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ ५० ॥ यथेष्टं बज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्ण नास्ति किं तुभ्यं ददामीति वदाधुना ॥ ५१ ॥ व्यास उवाच- गच्छन् वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनि ब्रह्मन् धैर्य कुरु ददाम्यहम् ॥ ५२ ॥ मम देहोऽस्ति भार्यायाः पुत्रस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ ५३॥ ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ ५४ ॥ गृहाण काञ्चनं पूर्ण साधू भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः संतुष्टो भव भूधर ।। ५५ ॥