पृष्ठम्:मनोहरकाव्यमाला.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२६ ) इत्युक्त्वाऽथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ ६७ ॥ कुतः पुष्टानि मित्राणि कुत्रार्थः सांप्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याच्ञा कथं भवेत् ॥ ६८ ॥ राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ ६६ ॥ ब्रह्मस्वहाकृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ ७० ॥ सूत उवाच- राजानं व्याकुलं दीनं चिन्तयनिमधोमुखम्। प्रत्युवाच तदा पत्नी वाष्पगद्गदया गिरा ॥ ७१ ॥ त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यवहिष्कृतः ॥ ७२ ॥ नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ ७३ ॥ अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ ७४ ॥ सत्यमत्यन्तमुदितं धर्मशास्त्रषु धीमताम् । तारणायाऽनृतं तद्वत्पतनायाऽकृतात्मनाम् ॥ ७५ ॥ शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत् स्वर्गादसत्यवचनाच्चयुतः ॥ ७६ ॥ राजेावाच- वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ ७७ ॥ पत्न्युवाच- राजन् मा भूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः ।