पृष्ठम्:मनोहरकाव्यमाला.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११८ ) पत्नी-विक्रयः। एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः। अन्तकन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ १ ॥ तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्ञ्छितः । स वारिणा तमभ्युदय राजानमिदमब्रवीत् ॥ २॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ ३ ॥ आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥४॥ पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः । समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ ५ ॥ विश्वामित्र उवाच- दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्यनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ ६ ॥ सत्ये चोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वेमधसहस्रं तु सत्यं च तुलया धृतम् ॥ ७ ॥ अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्नेनास्ति प्रयोजनम् ॥ ८ ॥ मदीयां दक्षिणां राजन्न दास्यसि भवान् यदि । अस्ताचलगते हर्के शप्स्यामि त्वामतो ध्रुवम् ॥ ६॥ इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽतिपदसौ सुदीनो मुनिनार्दितः ॥ १० ॥ सूत उवाच- एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः। ब्राह्मणैर्वहुभिः सार्धं निर्ययौ स्वगृहाद्वहिः ॥ ११ ॥