पृष्ठम्:मनोहरकाव्यमाला.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

ततो राशी तु तं दृष्ट्वा श्रायान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ १२ ॥ त्रयाणामपि वर्णानां पिता ब्राह्मण मन्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ १३ ॥ तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच- नाहं प्रतिग्रहं काः क्षत्रियोऽहं सुमध्यमे ॥ १४ ॥ याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्त सर्वदा ॥ १५ ॥ तस्माद्गुरुर्न याच्यः स्यात्तात्रयाणां विशेषतः । यजनाध्ययनंदानं क्षत्रियस्य विधीयते ॥ १६ ॥ शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपर्ण वचः ॥ १७ ।। ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्र चिद्द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ १८ ॥ पत्न्युवाच- कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारञ्च ॥ १६ ॥ विप्रेण विदुषः राजा क्रुद्धनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ २०॥ राजोवाच- असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ २१ ॥ क्षत्रियोऽहं महाभागेन याचे किंचिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ २२ ॥