पृष्ठम्:मनोहरकाव्यमाला.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२० ) पत्ल्युवाच- यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ २३ ॥ अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं संगृहीत्वाथ गुर्वर्थ संप्रदीयताम् ॥ २४ ॥ एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः। कष्ट कष्टमिति प्रोच्य विललापातिदुःखितः ॥ २५ ॥ भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्र-शापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ २६ ॥ न द्यूतहेतोर्न च मद्य हेतो- र्न राज्य हेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यवत त्वं सफलं कुरुष्व ॥ २७ ।। स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ २८ ॥ नृशंसैरपि यत्कर्तुं न शक्यं तत् करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २६ ॥ एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ॥ ३०॥ वाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥ ३१॥ कस्यचिद्यदि कार्ये स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ३२ ॥ ते ब्रवन् पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच- किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ।