पृष्ठम्:मनोहरकाव्यमाला.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२१ ) राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ॥ ३३॥ व्यास उवाच- तं शब्दं सहसाश्रुत्वा कौशिको विप्ररूपधृक् । वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ३४॥ अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे।। ३५ ॥ अहं गृहामि दासी तु कति दास्यामि ते धनम् । एवमुक्तं तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ ३६ ॥ विदीर्ण तु मनो दुःखान्न चैनं किंचिदब्रवीत् । विप्र उवाच- कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ३७॥ अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ ३८ ॥ द्वात्रिंशलक्षणोपेता दता शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्वुदम् ॥ ३६ ॥ इत्याकर्ण्य वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताविष्टो न चैनं किंचिदव्रवीत् ॥ ४० ॥ ततः स विप्रोः नृपतेः पुरतो वल्कलोपरि। धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ ४१ ॥ राश्युवाच- मुञ्च मुशाऽऽर्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ ४२ ॥ पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मा स्प्रा‌क्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ ४३ ॥ ततः स वालः सहसा दृष्ट्वा कष्टां तु मातरम् ।