पृष्ठम्:मनोहरकाव्यमाला.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ ४ ॥ हस्ते वस्त्रं समाकर्षन्काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद्वालमभ्याहनत्तदा ॥ ४५ ॥ वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राश्युवाच- प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ ४६॥ क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ ४७ ।। ब्राह्मण उवाच- गृह्यतां वित्तमेतत्ते दीयतां मम बालकम् । स्त्रीपुंसोधर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ ४८ ।। शतं सहनं लक्षं च कोटि मौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ ४६ ॥ कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्वुदम् । सूत उवाच- तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ ५० ॥ प्रगृह्य बालकं मात्रा सहकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ ५१ ॥ प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । वाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ ५२ ।। यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ती हरिश्चन्द्रोऽस्तु वै पुनः ॥ ५३ ॥ पादयोः पतितां दृष्ट्वा प्राणभ्योऽपि गरीयसीम् । हा हेति च वदन्राजा विललापाकुलेन्द्रियः ॥ ५४ ।। वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायाऽपि वृक्षं तं न जहाति कदाचन ॥ ५५ ॥