पृष्ठम्:मनोहरकाव्यमाला.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२४ ) हरिश्चन्द्र उवाच- नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् । राजसूयस्य यागस्य या मयोक्का पुराऽनघ || ६७ ॥ विश्वामित्र उवाच- कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते । एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् ॥ ६८॥ राजोवाच- किमनेन महाभाग कथितेन तवाऽनघ । शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत ॥ ६६ ॥ ऋषिरुवाच- अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे। द्रव्यस्याऽऽगमनं राजन्कथयस्व यथातथम् ॥ ७० ॥ राजोवाच- मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया ॥ ७१ ॥ सूत उवाच- तद्वित्तं स्वल्पमालक्ष्य दारविक्रयसंभवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ७२ ॥ ऋषिरुवाच- राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय तिप्रं संपूर्णा येन सा भवेत् ॥ ७३ ॥ क्षत्रवन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ ७४॥ तपसोऽस्य सुतप्तस्य ब्राह्मणस्याऽमलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याऽध्ययनस्य च ॥ ७५ ॥