पृष्ठम्:मनोहरकाव्यमाला.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२५ ) राजोवाच- अन्यद्दास्यमि भगवन् कालः कश्चित् प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ ७६ ॥ विश्वामित्र उवाच- चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ७७ ।। 7 स्व-विक्रयः । व्यास उवाच- तमेवमुक्त्वा राजानं निघृणं निष्ठुरं वचः। तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥१॥ विश्वामित्रेगते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २ ॥ कस्यचिद्यदि कार्य स्याद्दासेन प्रेतेन मया । स ब्रवीतु त्वरायुक्तो या मे तिष्ठति भास्करः ॥ ३ ॥ अथाजगाम त्वरितो धर्मश्चांडालरुपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥४॥ कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः। हस्तजर्जरयष्टिश्च शवमाल्यैरलंकृतः ॥५॥ चांडाल उवाच- अहं गृहामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्वं मौल्यं किमेतत्ते संप्रदीयते ॥ ६ ॥ व्यास उवाच- तं तादृशमथाऽऽलक्ष्य करदृष्टिं सुनिघृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥७॥ L