पृष्ठम्:मनोहरकाव्यमाला.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२६ ) चांडाल उवाच- चांडालोऽहमिह ख्यातः प्रवीरति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ ८ ॥ एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ ६ ॥ उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ १० ॥ चांडाल उवाच एवमेव त्वयाऽधर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्नं ममाग्रतः ॥ ११ ॥ विचारियत्वा यो व्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयाऽनघ ॥ १२ ॥ यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच- असत्यानरके गच्छेत् सद्यः करे नराधमः ॥ १३ ॥ ततश्चांडालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच- तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ १४ ॥ क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चांडालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ १५ ॥ कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच- भगवन् सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ १६ ॥ कथं चांडालदासत्वं गमिष्ये वित्तकामतः। विश्वामित्र उवाच- यदि चांडालवित्तं त्वमात्मविक्रयजं मम ॥ १७ ॥