पृष्ठम्:मनोहरकाव्यमाला.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

रामवनगमनम् वनवासादेशः स ददशंसने रामो विषण्णं पितरं शुभे। कैकेय्या सहित दीनं मुखेन परिशुष्यता ॥१॥ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२॥ रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।। ३ ॥ तदपूर्व नरपतेदृष्ट्रा रूपं भयावहम् । रामोऽपि भयमापन्नः पदा स्पृष्ट्येव पन्नगम् ॥ ४॥ इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् । निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥ ऊर्मिमालिनमक्षोभ्यं तुभ्यन्तमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृर्षि यथा ॥६॥ अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥ चिन्तयामास चतुरो रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥६॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥४॥ स दीन इव शोकातों विषण्णवदनद्यतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥१०॥ कञ्चिन्मया नापराद्धमशानायेन मे पिता। कुपितस्तन् ममाचक्ष्व त्वमेवैनं प्रसादय ॥ ११ ॥ २