पृष्ठम्:मनोहरकाव्यमाला.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२७ ) न प्रदास्यसि चेत्तर्हि शपस्यामि त्वामसंशयम् । चांडालादथवा विप्रादेहि मे दक्षिणाधनम् ॥ १८ ॥ विना चांडालमधुना नान्याः कश्चिद्धनप्रदः । धनेनाऽहं विना राजन्न यास्यामि न संशयः ॥ १६ ॥ इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ २० ॥ व्यास उवाच- हरिश्चन्द्रस्ततो राजा मृतवच्छ्रितजीवितः । प्रसीदेति वदन् पादौ ऋषेर्जग्राह विह्वलः ॥ २१ ॥ हरिश्चन्द्र उवाच- दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्चविशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चांडालसंकरः ॥ २२ ॥ भवेयं विसशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ २३ ।। विश्वामित्र उवाच- एवमस्तु महाराज ममैव भव किंकरः । किं तु मद्धचनंं कार्यं सर्वदैव नराधिप ।। २४ ॥ व्यास उवाच- एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ २५ ॥ तवादेश करिष्यामि सदैवाऽहं न संशयः । श्रादेशय द्विज श्रेष्ठ किं करोमि तवानघ ॥ २६ ॥ विश्वामित्र उवाच- चांडालागच्छ महासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ २७ ॥ नास्ति दासेन मे कार्ये वित्ताशा वर्तते मम ।