पृष्ठम्:मनोहरकाव्यमाला.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३० ) तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ १२ ॥ इमं च जर्जर दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दंड इति घोषस्व सर्वतः ॥ १३ ॥ सूत उवाच- कस्मिश्चिदथ काले तु मृतचैलापहारकः हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥ १४ ॥ चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ १५॥ पुर्यास्तु दक्षिण देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धवहुधूमकम् ॥ १६ ॥ श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम् ॥ १७ ॥ अस्थिसंघातसंकीर्णं महादुर्गंधसंकुलम् । अर्धदग्धशवास्यानि विकसद्दंतपंक्तिभिः ॥ १८ ॥ हसन्तीवाऽग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ १६ ॥ हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाऽद्य मे । हाप्यते भागिनेयाऽहं हा मातुल पितामह ॥ २० ॥ मातामह पितः पौत्र क गतोऽस्येहि वान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ २१ ॥ ज्वलन्मांसवसामेदच्छूमितिध्वनिसंकुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ २२ ॥ कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र संप्राप्तो दुःखादेवमशोच यत् ॥ २३ ॥ हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । पुत्र मां त्यक्त्वा मन्दभाग्यकम् ॥२४॥