पृष्ठम्:मनोहरकाव्यमाला.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३१ ) ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विनाधर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ २५॥ यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ २६ ॥ मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च घावंश्चापि ततस्ततः ॥२७॥ अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाऽग्रतः । इदं मम इदं राक्ष इदं चाण्डालकस्य च ।। २८ ।। इत्येवं चिन्तयन्राजा व्यवस्था दुस्तरां गतः। जीर्णैकपटसुग्रंथिकृतकंथापरिग्रहः ॥२६॥ चिताभस्मरजोलिप्तमुखवाहूदरांघ्रिकः । नानामेदोवसामज्जालिप्ताप्यङ्गुलिः श्वसन् ॥ ३० ॥ नानाशवौदनकृतनुन्निवृत्तिपरायणः । तदीय माल्यसंश्लेषकृतमस्तकमंडलः॥३१॥ न रात्रौ न दिवा शेतं हा हेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्ष शतोपमाः॥ ३२॥ - रोहित-मृत्युः। सूत उवाच- एकदा तु गतो रंतुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः॥१॥ क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपवक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्तयनुसारतः॥२॥ आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ ३॥