पृष्ठम्:मनोहरकाव्यमाला.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३२ ) पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥४॥ उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ ५ ॥ कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ ६ ॥ विश्वामित्राशया तावत् कृष्णसर्पो भयावहः। महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥७॥ तेनाऽसौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्वाला द्विजालयम् ॥ ८ ॥ त्वरिता भय-संविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्त्तुं बहिर्गतः ॥ ६ ॥ अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ १० ॥ पपात मूञ्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः सुजलेनाऽभ्यर्षिंचत ॥ ११ ॥ मुहूर्ताचेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । व्राह्मण उवाच- अलक्ष्मीकारकं निन्द्यं जानीहि त्वं निशामुखे ॥ १२ ॥ रोदनं कुरुषे दुष्टे लजात हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किंचिद्वाक्यमब्रवीत् ॥ १३ ॥ रुरोद करुणं दीनां पुत्रशोकेन पीडिता। अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्द्धजा ॥ १४ ॥ अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक् त्वां दुष्टे क्रयं गृहा मम कार्य विलुम्पसि ॥ १५ ॥