पृष्ठम्:मनोहरकाव्यमाला.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३४ ) एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यंगादिकर्मणा ॥ २८ ॥ ब्राह्मणेनाऽथ सा प्रोक्ता पुत्रपार्श्व व्रजाऽधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ २६ ॥ न लुप्येत यथा प्रातगृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम सा ॥ ३०॥ दृष्ट्वा मृतं निजपुत्रं भृशं शोकेनपीडिता । यूथभ्रष्टा कुरंगीव विवत्सा सौरभी यथा ॥ ३१ ॥ वाराणस्या वर्हिगत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रंकवद् भूमौ काष्ठदर्भतृणोपरि ॥ ३२ ॥ विललापातिदुःखाता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाऽधुना ॥ ३३ ॥ श्रायास्याभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्ञ्छिता ॥ ३४॥ पुनः सा चेतनां प्राप्य दोामालिंग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदाऽऽर्तस्वनैस्तदा ॥ ३५ ॥ कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर ।। ३६ ॥ हा राजन्क्व गतोऽसि त्वं पश्येम बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ ३७॥ तथाऽपश्यन्मुखं तस्य भूयो जीवित शंकया । निर्जीववदनं ज्ञात्वा मूर्ञ्छिता निपपात च ॥ ३८ ॥ हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्र जागृहि भीषणम् ॥ ३९ ॥ निशाध वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ ४० ॥